BPHSTwelve Weeks

Brihat Parashara Hora Shastra · Volume 2

100. EPILOGUE

25 verses1 translator's noteStudied in Week 12
Read BPHS — the source itselfBPHS 100 · EPILOGUE

यच्छास्त्रं ब्रह्मणा प्रोक्तं नारदाय महात्मने ।
तदेव शौनकादिभ्यो नारदः प्राह सादरम् ॥ १ ॥

ततो मया यथा ज्ञातं तुभ्यमुक्तं तथा द्विज !।
नासूयकाय दातव्यं परनिन्दारताय वा ॥ २ ॥

जडाय दुर्विनीताय नाज्ञाताय कदाचन ।
देयमेतत्सुशीलाय भक्ताय सत्यवादिने ॥ ३ ॥

मेधाविने विनीताय सम्यग् ज्ञातकुलाय च ।
पुण्यदं ज्यौतिषं शास्त्रमग्र्यं वेदांगमुत्तमम् ॥ ४ ॥

Verse 1–4

1-4 : Maharishi Parasara said O Vipra ! The Shastra expounded by Lord Bramha for Mahatma Narad and he (Narad) a with all humbleness narated the same to Rishis Shaunaka etc. and I have unfolded the same Shastra as it is, before you. This knowledge should never be imparted to a person who is Jealous, backbiter (slander), dull, arrogant and unknown. This supreme and pious shastra amongst all Vedangas (वेदांग) should be taught well to the humble, devoted, truthful, intellegent, submisive and known persons.

जानाति कालमानं यो ग्रहर्क्षाणां च संस्थितिम् ।
होराशास्त्रमिदं सम्यक् स विजानाति नाऽपरः ॥ ५ ॥

होराशास्त्रार्थतत्त्वज्ञः सत्यवाग् विजितेन्द्रियः ।
शुभाऽशुभं फलं वक्ति सत्यं तद्वचनं भवेत् ॥ ६ ॥

Verse 5–6

5-6 A person having the knoweldge of time (कालमान) and accurate positions of planets and Nakshatras only can understand Hora Shastra and not others. A person knowing the subject matter of Hora Shastra should be truthful and able to exercise control over his senses. The auspicious and inauspicious predictions of such a person will come true.

ये सुशास्त्रं पठन्तीदं ये वा शृण्वन्ति भक्तितः ।
तेषामायुर्बलं वित्तं वृद्धिमेति यशः सदा ॥ ७ ॥

Verse 7

7 : A person who reads or listen devotedly this excellent Hora Shatra, his longevity, strength, wealth, fame will go on increasing.

इत्यं पराशरेणोक्तं होराशास्त्रं चमत्कृतम् ।
नवं नवजनप्रीत्यै विविधाध्यायसंयुतम् ॥ ८ ॥

श्रेष्ठं जगद्धितायेदं मैत्रेयाय द्विजन्मने ।
ततः प्रचरितं पृथ्व्यामादृतं सादरं जनैः ॥ ९ ॥

Verse 8–9

8-9 : In this manner, Maharishi Parasara narrated to Maitreya, the Brahmin, the new supreme Hora Shatra containing different remarkable chapters keeping in view the welfare of the world at large. Thereafter, it was spread to the entire world and was received respectfully by one and all.

ग्रन्थेऽस्मिन् पृथगध्यायैर्विषया विनिवेशिताः ।
सृष्टिक्रमोऽवताराश्च गुणा: खेटस्य भस्य च ॥ १० ॥

विशेषलग्नं वर्गाश्च तद्विवेकश्च राशिदृक् ।
अरिष्टं तद्विभंगश्च विवेको भावजस्तथा ॥ ११ ॥

भावानां च फलाध्यायो भावेशोत्यफलं तथा ।
अप्रकाशफलं स्पष्ट-खेटदृष्टि-प्रसाधनम् ॥ १२ ॥

ततः स्पष्टबलाध्यायः इष्टकष्टप्रसाधनम् ।
पदं चोपपदं तद्वदर्गला त्वथ कारकाः ॥ १३ ॥

कारकांशफलं योगकारकाध्याय एव च ।
नाभसा विविधा योगाश्चन्द्रयोगोऽर्कयोगकः ॥ १४ ॥

राजयोगस्ततः प्रोक्तो राजसम्बन्धयोगकः ।
विशेषधनयोगाश्च योगा दारिद्र्यकारकाः ॥ १५ ॥

आयुर्मारकभेदाश्च ग्रहावस्थाः फलान्विताः ।
नानाविध - दशाध्यायास्तत्फलाध्यायः संयुताः ॥ १६ ॥

अन्तः - प्रत्यन्तर - प्राण- सूक्ष्मसंज्ञाश्च तद्भिदाः ।
सूर्याद्यष्टकवर्गश्च त्रिकोणपरिशोधनम् ॥ १७ ॥

एकाधिपत्यसंशुद्धिस्ततः पिण्डप्रसाधनम् ।
तताश्चाऽष्टकवर्गाणां प्रस्फुटानि फलानि च ॥ १८ ॥

ततोऽप्यष्टकवर्गायुःसाधनं च ततः परम् ।
समुदायाष्टवर्गोत्य-फलाध्यायः परिस्फुटः ॥ १९ ॥

ग्रहरश्मिफलाध्यायः सुदर्शनफलं तथा ।
महापुरुषचिहानि महाभूतफलानि च ॥ २० ॥

गुणत्रयफलाध्यायस्ततोऽप्यज्ञातजन्मनाम् ।
जन्मलग्नादिविज्ञानं, प्रवज्यालक्षणानि च ॥ २१ ॥

स्त्रीणां च फलवैशिष्ट्यमंगलक्ष्मफलानि च ।
पूर्वपापोत्य- शापोत्य- योगा वैपुत्रयकारकाः ॥ २२ ॥

सत्पुत्रप्राप्त्युपायाश्च सहैव प्रतिपादिताः ।
जन्मन्यनिष्टलग्नर्क्ष तिथ्यादिप्रतिपादनम् ॥ २३ ॥

तत्तच्छान्तिविधिश्चैव संक्षेपेण प्रदर्शितः ।
प्रसवस्य विकाराश्च कथिताः शान्तिसंयुताः ॥ २४ ॥

एवं जातकवर्येऽत्र निविष्टा विषयाः शतम् ।
विज्ञाय विबुधास्त्वेतान प्राप्नुवन्तु यशः श्रियम् ॥ २५ ॥

Verse 10–25

10-25 : The foregoing stanzas contain only the headings of all the preceding chapters.